このページの使い方
ヨーガスートラの学習でサンスクリット語原文を通して学ぶうちに、ある日ふと経文の一部分のみ思い出されることがあります。
「何章の何節だったのか思い出せない。どんな意味だったのか知りたい。
しかし1章1節から順に調べるには時間がかかりそうだ」
という時にお役立てください。経文の始まりの単語がわかると早く調べることができます。
「अ(a)」→「ह (ha)」の順に並べかえています。
[अ]
अतीतानागतं स्वरूपतोऽस्त्याध्वभेदाद्धर्माणाम्
(4-12)
अथ योगानुशासनम्
(1-1)
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या
(2-5)
अनुभूतविषयासम्प्रमोषः स्मृतिः
(1-11)
अपरिग्रहस्थैर्ये जन्मकथन्तासंबोधः
(2-39)
अभावप्रत्ययालम्बना वृत्तिनिंद्रा
(1-10)
अभ्यासवैराग्याभ्यां तन्निरोधः
(1-12)
अविद्यास्मितारागद्वेषाभिनिवेशा: क्लेशाः
(2-3)
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिनोदाराणाम्
(2-4)
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्
(2-37)
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः
(2-35)
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः
(2-30)
[ई ]
ईश्वरप्रणिधानाद्वा
(1-23)
[उ ]
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च
(3-39)
[ ऋ]
ऋतम्भरातत्र प्रज्ञा
(1-48)
[ए]
एकसमये चोभयानवधारणम्
(4-20)
एतयैव सविचारा निर्विचारा व सूक्ष्मविषया व्याख्याता
(1-44)
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः
(3-13)
[क]
कण्ठकूपे क्षुत्पिपासानिवृत्तिः
(3-30)
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम्
(4-7)
क्रमान्यत्वं परिणामान्यत्वे हेतुः
(3-15)
कायरूपसंयमात् तद्ग्राहाशक्तिस्तम्भे चक्षु: प्रकाशासम्प्रयोगेऽन्तर्धानम्
(3-21)
कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमा पत्तेश्चाकाशगमनम्
(3-42)
कार्यन्द्रियसिद्धिरशुद्धिक्षयात्तपसः
(2-43)
कूर्मनाड्यां स्थैर्यम
(3-31)
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्
(2-22)
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः
(1-24)
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः
(2-12)
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम्
(1-41)
क्षणप्रतियोगी परिणामापरान्त निग्रहाः क्रमः
(4-33)
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः
(1-41)
[ग]
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः
(3-47)
[च ]
चन्द्रे ताराव्यूहज्ञानम्
(3-27)
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसंग: स्मृतिसंकरश्च
(4-21)
चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धि संवेदनम्
(4-22)
[ज ]
जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः
(4-1)
जातिदेशकालव्यवहितानामप्यानान्तर्यं स्मृति संस्कारयोरेकरूपत्वात्
(4-9)
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्
(2-31)
जातिलक्षणादेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः
(3-53)
जात्यन्तरपरिणामः प्रकृत्यापूरात्
(4-2)
[त]
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः
(4-27)
तज्जपस्तदर्थभावनम्
(1-28)
तज्जयाप्रज्ञालोकः
(3-5)
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी
(1-50)
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्
(4-32)
ततः क्लेशकर्मनिवृत्तिः
(4-30)
ततः परमा चश्यतेन्द्रियाणाम्
(2-55)
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैतापरिणामः
(3-12)
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च
(1-29)
ततः प्रातिभश्रावणवेदनादशांस्वादवार्ता जायन्ते
(3-36)
ततस्तद्विपाकानुगुणानामैवाभिव्यक्तिर्वासनानाम्
(4-8)
ततः क्षीयते प्रकाशावरणम्
(2-52)
ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मा नभिघातश्च
(3-45)
ततो द्वन्द्वानभिघातः
(2-48)
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च
(3-48)
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्
(1-16)
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः
(1-32)
तत्र प्रत्ययैकतानताध्यानम्
(3-2)
तत्र स्थितौ यत्नोऽभ्यासः
(1-13)
तत्र ध्यानजमनाशयम्
(4-6)
तत्र निरतिशयं सर्वज्ञवीजम्
(1-25)
तत्र शब्दार्थज्ञानविकल्पै: संकीर्णा सवितर्का समापत्तिः
(1-42)
तदर्थ एव दृश्यस्यात्मा
(2-21)
तदपि बहिरङ्गं निर्बीजस्य
(3-8)
तदभावात्संयोगाभावो हानं तद्द्शेः कैवल्यम्
(2-25)
तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात्
(4-24)
तदा द्रष्टुः स्वरूपेऽवस्थानम्
(1-3)
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्
(4-26)
तदा सर्वावरणमलापेतस्य ज्ञानस्थानन्त्याज्ज्ञेयमल्पम्
(4-31)
तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम्
(4-17)
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः
(3-3)
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्
(3-50)
तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः
(2-1)
तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः
(2-49)
तस्य प्रशान्तवाहिता संस्कारात्
(3-10)
तस्य भूमिषु विनियोगः
(3-6)
तस्य वाचकः प्रणवः
(1-27)
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा
(2-27)
तस्य हेतुरविद्या
(2-24)
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः
(1-51)
ता एव सबीज: समाधिः
(1-46)
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम्
(3-54)
तासामनादित्वं चाशिषो नित्यत्वात्
(4-10)
तीव्रसंवेगानामासन्नः
(1-21)
ते प्रतिप्रसवहेयाः सूक्ष्माः
(2-10)
ते ह्रादपरितापफलाः पुण्यापुण्यहेतुत्वात्
(2-14)
ते व्यक्तसूक्ष्मा गुणात्मानः
(4-13)
ते समाधावुपसर्गा व्युत्थाने सिद्धयः
(3-37)
त्रयमन्तरङ्गपूर्वेभ्य:
(3-7)
त्रयमेकत्र संयमः
(3-4)
[द]
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः
(2-20)
द्रष्टृदृश्ययोः संयोगो हेयहेतुः
(2-17)
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्
(4-23)
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः
(1-31)
दुःखानुशयी द्वेषः
(2-8)
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता
(2-6)
दृष्टानु श्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्
(1-15)
देशबन्धश्चित्तस्य धारणा
(3-1)
[ध]
धारणासु च योग्यता मनसः
(2-53)
घ्यानहेयास्तद्वृत्तयः
(2-11)
ध्रुवे तद्गतिज्ञानम्
(3-28)
[न]
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्
(4-16)
न च तत्सालम्बनं तस्याविषयीभूतत्वात्
(3-20)
न तत्स्वाभासं दृश्यत्वात्
(4-19)
नाभिचक्रे कायव्यूहज्ञानम्
(3-29)
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्
(4-3)
निर्माणचित्तान्यस्मितामात्रात्
(4-4)
निर्विचारवैशारद्येऽध्यात्मप्रसादः
(1-47)
[प]
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः
(1-40)
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च
दुःखमेव सर्वं विवेकिनः
(2-15)
परिणामत्रयसंयमादतीतानागतज्ञानम्
(3-16)
परिणामैकत्वाद्वस्तुतत्त्वम्
(4-14)
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशतेरिति
(4-34)
पूर्वेषामपि गुरुः कालेनानवच्छेदात्
(1-26)
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थ दृश्यम्
(2-18)
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य
(1-34)
प्रत्यक्षानुमानागमाः प्रमाणानि
(1-7)
प्रत्ययस्य परचित्तज्ञानम्
(3-19)
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः
(1-6)
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्
(2-47)
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्
(4-5)
प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्
(3-25)
प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्याते
(4-29)
धर्ममेघः समाधिः
(4-29)
प्राविभाद्वा सर्वम्
(3-33)
[ब]
बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः
(3-38)
ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः
(2-38)
बलेषु हस्तिबलादीनि
(3-24)
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः
(3-43)
बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः
(2-50)
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः
(2-51)
[भ]
भवप्रत्ययो विदेहप्रकृतिलयानाम्
(1-19)
भुवनज्ञानं सूर्ये संयमात्
(3-26)
[म]
मूर्धज्योतिषि सिद्धदर्शनम्
(3-32)
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः
(1-22)
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्
(1-33)
मैत्र्यादिषु बलानि
(3-23)
[य]
यथाभिमतध्यानाद्वा
(1-39)
यमनियमासनप्राणायामप्रत्याहारधारणाध्यान समाधयोऽष्टावसानि
(2-29)
योगश्चित्तवृत्तिनिरोधः
(1-2)
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्याते:
(2-28)
[र]
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत्
(3-46)
[व]
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः
(4-15)
वितर्कबाधने प्रतिपक्षभावनम्
(2-33)
वितर्कविचारानन्दास्मितानुगमात्सम्प्रज्ञातः
(1-17)
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा
दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्
(2-34)
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्
(1-8)
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः
(1-18)
विवेकख्यातिरविप्लवा हानोपायः
(2-26)
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः
(4-25)
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि
(4-19)
विशोका वा ज्योतिष्मती
(1-36)
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी
(1-35)
वीतरागविषयं वा चित्तम्
(1-37)
वृत्तयः पञ्चतय्य: क्लिष्टाक्लिष्टाः
(1-5)
वृत्तिसारूप्यमितरत्र
(1-4)
व्याधिस्त्यानसंशय प्रमादालस्याविरतिभ्रान्ति दर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्त विक्षेपास्तेऽन्तरायाः
(1-30)
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः
(3-9)
[श ]
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः
(1-9)
शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्र विभागसंयमात्सर्वभूतरुतज्ञानम्
(3-17)
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी
(3-14)
शौचसंतोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः
(2-32)
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः
(2-40)
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्
(1-20)
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्
(1-49)
श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम्
(3-41)
[स]
सति मूले तद्विपाको जात्यायुभोंगाः
(2-13)
स तु दीर्घकालनैरन्तर्यसत्काराऽऽसेवितो दृढभूमिः
(1-14)
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्
(2-36)
सत्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम्
(3-35)
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम्
(3-55)
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च
(3-49)
सत्त्वशुद्धिसौमनस्यैकाथेन्द्रियजयात्मदर्शनयोग्यत्वानि च
(2-41)
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् .
(4-18)
समाधिभावनार्थ: क्लेशतनूकरणार्थश्च
(2-2)
समाधिसिद्धिरीश्वरप्रणिधानात्
(2-45)
समानजयाज्ञ्चलनम्
(3-40)
संतोषादनुत्तमसुखलाभ:
(2-42)
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम्
(3-18)
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः
(3-11)
सुखानुशयी रागः
(2-7)
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्
(1-45)
सोपक्रम निरुपक्रमं च कर्म तत्संयमादपरान्त ज्ञानमरिष्टेभ्यो वा
(3-22)
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात्
(3-51)
स्थिरसुखमासनम्
(2-46)
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः
(3-44)
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का
(1-43)
स्वप्ननिद्राज्ञानालम्बनं वा
(1-38)
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेश:
(2-9)
स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार
(2-54)
इवेन्द्रियाणां प्रत्याहार:
(2-54)
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः
(2-23)
स्वाध्यायादिष्टदेवतासम्प्रयोगः
(2-44)
[ह]
हानमेषां क्लेशवदुक्तम्
(4-28)
हृदये चित्तसंवित्
(3-34)
हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभाव:
(4-11)
हेयं दुःखमनागतम्
(2-16)